वांछित मन्त्र चुनें

तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् । दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिण॑: ॥

अंग्रेज़ी लिप्यंतरण

tam ukṣamāṇam avyaye vāre punanti dharṇasim | dūtaṁ na pūrvacittaya ā śāsate manīṣiṇaḥ ||

पद पाठ

तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् । दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥ ९.९९.५

ऋग्वेद » मण्डल:9» सूक्त:99» मन्त्र:5 | अष्टक:7» अध्याय:4» वर्ग:25» मन्त्र:5 | मण्डल:9» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उक्षमाणम्, तम्) उक्त बलस्वरूप परमात्मा को (मनीषिणः) मेधावी लोग (अव्यये, वारे) रक्षायुक्त विषयों में (पुनन्ति) वर्णन करते हैं, (धर्णसिम्) सर्वाधार को (दूतम्, न) दुःखनिवारकरूप से (पूर्वचित्तये) सबसे प्रथम (आशासते) प्रार्थना करते हैं ॥५॥
भावार्थभाषाः - परमात्मा सम्पूर्ण जगत् का आधार है, इससे उसी की उपासना प्रथम करनी चाहिये ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उक्षमाणं, तं) बलस्वरूपं तं परमात्मानं (मनीषिणः) मेधाविनः (अव्यये, वारे) रक्षायुक्तस्थाने (पुनन्ति) वर्णयन्ति (धर्णसिं) सर्वधारकं (दूतं, न) दुःखनिवारकं मन्यमानाः (पूर्वचित्तये) सर्वेभ्यः प्रथमं (आशासते) प्रार्थयन्ते ॥५॥